|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.203. अध्यायः 203
Mahabharata - Drona Parva - Chapter Topics
इतरालक्षितं पुरतः स्वानुकूलं युध्यमानं शूलपाणिं कञ्चन पुरुषप्रवरमवलोकयता पार्थेन स क इति यदृच्छासमागतं व्यासं प्रति प्रश्नः॥ 1 ॥ तेन तम्प्रति तस्य तस्य पशुपतित्वोक्त्या शतरुद्रीयपठनेन सविस्तरं तद्गुणगणवर्णनम्॥ 2 ॥

Mahabharata - Drona Parva - Chapter Text
धृतराष्ट्र उवाच। 7-203-0x(4809)(54714)
तस्मिन्नतिरथे द्रोणे निहते तत्र सञ्जय।
मामकाः पाण्डवाश्चैव किमकुर्वन्नतः परम्॥ 7-203-1(54715)
सञ्जय उवाच। 7-203-2x(4810)
तस्मिन्नतिरथे द्रोणे निहते पार्षतेन वै।
कौरवेषु च भग्नेषु कुन्तीपुत्रो धनञ्जयः॥ 7-203-2(54716)
दृष्ट्वा सुमहदाश्चर्यमात्मनो विजयावहम्।
मुनिं स्निग्धाम्बुदाभासं वेदव्यासमकल्मषम्।
यदृच्छयाऽऽगतं व्यासं पप्रच्छ भरतर्षभ॥ 7-203-3(54717)
अर्जुन उवाच। 7-203-4x(4811)
सङ्ग्रामे न्यहनं शत्रूञ्शरौघैर्विमलैरहम्।
अग्रतो लक्षये यान्तं पुरुषं पावकप्रभम्॥ 7-203-4(54718)
ज्वलन्तं शूलमुद्यम्य यां दिशं प्रतिपद्यते।
तस्यां दिशि विदीर्यन्ते शत्रवो मे महामुने॥ 7-203-5(54719)
तेन भग्नानरीन्सर्वान्मद्भग्नान्मन्यते जनः।
तेन भग्नानि सैन्यानि पृष्ठतोऽनुव्रजाम्यहम्॥ 7-203-6(54720)
भगवंस्तन्ममाचक्ष्व को वै स पुरुषोत्तमः।
शूलपाणिर्मया दृष्टस्तेजसा सूर्यसन्निभः॥ 7-203-7(54721)
न पद्भ्यां स्पृशते भूमिं न च शूलं विमुञ्चति।
शूलाच्छूलसहस्राणि निष्पेतुस्तस्य तेजसा॥ 7-203-8(54722)
व्यास उवाच। 7-203-9x(4812)
प्रजापतीनां प्रथमं तैजसं पुरुषं प्रभुम्।
भुवनं भूर्भुवं देवं तेजसां प्रवरं प्रभुम्॥ 7-203-9(54723)
ईशानं वरदं पार्थ दृष्टवानसि शङ्करम्।
तं गच्छ शरणं देवं वरदं भुवनेश्वरम्॥ 7-203-10(54724)
महादेवं महात्मानमीशानं जटिलं विभुम्।
त्र्यक्षं महाभुजं रुद्रं शिखिनं चीवराससम्॥ 7-203-11(54725)
महादेवं हरं स्थाणुं वरदं भुवनेश्वरम्।
जगत्प्रधानमजितं जगत्प्रीतिमधीश्वरम्॥ 7-203-12(54726)
जगद्योनिं जगद्बीजं जयिनं जगतो गतिम्।
विश्वात्मानं विश्वसृजं विश्वमूर्तिं यशस्विनम्॥ 7-203-13(54727)
विश्वेश्वरं विश्वनरं कर्मणामीश्वरं प्रभुम्।
शंभुं स्वयंभुं भूतेशं भूतभव्यभवोद्भवम्॥ 7-203-14(54728)
योगं योगेश्वरं सर्वं सर्वलोकेश्वरेश्वरम्।
सर्वश्रेष्ठं जगच्छ्रेष्ठं वरिष्ठं परमेष्ठिनम्॥ 7-203-15(54729)
लोकत्रयविधातारमेकं लोकत्रयाश्रयम्।
शुद्धात्मानं भवं भीमं शशाङ्ककृतशेखरम्॥ 7-203-16(54730)
शाश्वतं भूधरं देवं सर्ववागीश्वरेश्वरम्।
सुदुर्जयं जगन्नाथं जन्ममृत्युजरातिगम्॥ 7-203-17(54731)
ज्ञानात्मानं ज्ञानगम्यं ज्ञानश्रेष्ठं सुदुर्विदम्।
दातारं चैव भक्तानां प्रसादविहितान्वरान्॥ 7-203-18(54732)
तस्य पारिषदा दिव्या रूपैर्नानाविधैर्विभोः।
वामना जटिला मुण्डा हस्वग्रीवा महोदराः॥ 7-203-19(54733)
महाकाया महोत्साहा महाकर्णास्तथाऽपरे।
आननैर्विकृतैः पादैः पार्थ वेषैश्च वैकृतैः॥ 7-203-20(54734)
ईदृशैः स महादेवः पूज्यमानो महेश्वरः।
स शिवस्तात तेजस्वी प्रसादाद्याति तेऽग्रतः॥ 7-203-21(54735)
तस्मिन्घोरे सदा पार्थ सङ्ग्रामे रोमहर्षणे।
द्रौणिकर्णकृपैर्गुप्तां महेष्वासैः प्रहारिभिः॥ 7-203-22(54736)
कस्तां सेनां तदा पार्थ मनसाऽपि प्रधर्षयेत्।
ऋते देवान्महेष्वासाद्बहुरूपान्महेश्वरात्॥ 7-203-23(54737)
स्थातुमुत्सहते कश्चिन्न तस्मिन्नग्रतः स्थिते।
न हि भूतं समं तेन त्रिषु लोकेषु विद्यते॥ 7-203-24(54738)
गन्धेनापि हि सङ्ग्रामे तस्य क्रुद्धस्य शत्रवः।
विसंज्ञा हतभूयिष्ठा वेपन्ति च पतन्ति च॥ 7-203-25(54739)
तस्मै नमस्तु कुर्वन्तो देवास्तिष्ठन्ति वै दिवि।
ये चान्ये मानवा लोके ये च स्वर्गजितो नराः॥ 7-203-26(54740)
ये भक्ता वरदं देव शिवं रुद्रमुमापतिम्।
अनन्यभावेन सदा सर्वेशं समुपासते॥ 7-203-27(54741)
`सङ्ग्रामेषु जयं प्राप्य पालयन्ति महीमिमाम्'।
इह लोके सुखं प्राप्य ते यान्ति परमां गतिम्॥ 7-203-28(54742)
नमस्कुरुष्व कौन्तेय तस्मै शान्ताय वै सदा।
रुद्राय शितिकण्ठाय कनिष्ठाय सुवर्चसे॥ 7-203-29(54743)
कपर्दिने करालाय हर्यक्षवरदाय च।
याम्यायाव्यक्तकेशाय सद्वृत्ते शङ्कराय च॥ 7-203-30(54744)
काम्याय हरिनेत्राय स्थाणवे पुरुषाय च॥ 7-203-31(54745)
`नमो वृक्षाय सेनान्ये मध्यमाय नमोनमः'।
हरिकेशाय मुण्डाय कृशायोत्तारणाय च।
भास्कारय सुतीर्थाय देवदेवाय रंहसे॥ 7-203-32(54746)
बहुरूपाय सर्वाय प्रियाय प्रियवाससे।
उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे॥ 7-203-33(54747)
गिरिशाय प्रशान्ताय पतये चीरवाससे।
हिरण्यबाहवे राजन्नुग्राय पतये दिशाम्॥ 7-203-34(54748)
पर्जन्यपतये चैव भूतानां पतये नमः।
वृक्षाणां पतये चैव गवां च पतये नमः॥ 7-203-35(54749)
वृक्षैरावृतकायाय सेनान्ये मध्यमाय च।
स्रुवहस्ताय देवाय धन्विने भार्गवाय च॥ 7-203-36(54750)
बहुरूपाय विश्वस्य पतये मुञ्चवाससे।
सहस्रशिरसे चैव सहस्रचरणाय च।
सहस्रबाहवे चैव सहस्रवदनाय च॥ 7-203-37(54751)
शरणं गच्छ कौन्तेय वरदं भुवनेश्वरम्।
उमापतिं विरूपाक्षं दक्षयज्ञनिबर्हणम्॥ 7-203-38(54752)
प्रजानां पतिमव्यग्रं भूतानां पतिमव्ययम्।
कपर्दिनं वृषावर्तं वृषनाभं वृषध्वजम्॥ 7-203-39(54753)
वृषदर्पं वृषपतिं वृषशृङ्गं वृषर्षभम्।
वृषाङ्गं वृषभोदारं वृषभं वृषभेक्षणम्॥ 7-203-40(54754)
वृषायुधं वृषशरं वृषभूतं वृषेश्वरम्।
महोदरं महाकायं द्वीपिचर्मनिवासिनम्॥ 7-203-41(54755)
लोकेशं वरदं पुण्यं ब्रह्मण्यं ब्राह्मणप्रियम्।
त्रिशूलपाणिं वरदं खङ्गचर्मधरं प्रभुम्॥ 7-203-42(54756)
पिनाकिनं खङ्घधरं लोकानां पतिमीश्वरम्।
प्रपद्ये शरणं देवं शरण्यं चीरवाससम्॥ 7-203-43(54757)
नमस्तस्मै सुरेशाय गणानां पतये नमः।
सुवाससे नमस्तुभ्यं सुव्रताय सुधन्विने॥ 7-203-44(54758)
धनुर्धराय देवाय प्रियधन्वाय धन्विने।
धन्वन्तराय धनुषे धन्वाचार्याय ते नमः॥ 7-203-45(54759)
उग्रायुधाय देवाय नमः सुरवराय च।
नमोस्तु बहुरूपाय नमोस्तु बहुधन्विने॥ 7-203-46(54760)
नमोस्तु स्थाणवे नित्यं नमस्तस्मै तपस्विने।
नमोस्तु त्रिपुरघ्नाय भगघ्नाय च वै नमः। 7-203-47(54761)
वनस्पतीनां पतये नराणां पतये नमः।
मातॄणां पतये चैव गणानां पतये नमः॥ 7-203-48(54762)
गवां च पतये नित्यं यज्ञानां पतये नमः।
अपां च पतये नित्यं देवानां पतये नमः॥ 7-203-49(54763)
पूष्णो दन्तविनाशाय त्र्यक्षाय वरदाय च।
नीलकण्ठाय पिङ्गाय स्वर्णकेशाय वै नमः॥ 7-203-50(54764)
कर्माणि यानि दिव्यानि महादेवस्य धीमतः।
तानि ते कीर्तयिष्यामि तथाप्रज्ञं यथाश्रुतम्॥ 7-203-51(54765)
न सुरा नासुरा लोके न गन्धर्वा न राक्षसाः।
सुखमेधन्ति कुपिते तस्मिन्नपि गुरागताः॥ 7-203-52(54766)
दक्षस्य यजमानस्य विधिवत्संभृतं पुरा।
विव्याध कुपितो यज्ञं निर्दयस्त्वभवत्तदा।
धनुषा बाणमुत्सृज्य सघोषं विननाद च॥ 7-203-53(54767)
तेन शर्म कुतः शान्तिं लेभिरे स्म सुरास्तदा।
विद्रुते सहसा यज्ञे कुपिते च महेश्वरे॥ 7-203-54(54768)
तेन ज्यातलघोषेण सर्वे लोकाः समाकुलाः।
बभूवुर्वशगाः पार्थ निपेतुश्च सुरासुराः॥ 7-203-55(54769)
आपश्चुक्षुभिरे सर्वाश्चकम्पे च वसुन्धरा।
पर्वताश्च व्यशीर्यन्त दिशो नागाश्च मोहिताः॥ 7-203-56(54770)
अन्धेन तमसा लोका न प्राकाशन्त संवृताः।
जघ्निवान्सह सूर्येण सर्वेषां ज्योतिषां प्रभाः॥ 7-203-57(54771)
चुक्षुभुर्भयभीताश्च शान्तिं चक्रुस्तथैव च।
ऋषयः सर्वभूतानामात्मनश्च सुखैषिणः॥ 7-203-58(54772)
पूषाणमभ्यद्रवत शङ्करः प्रहसन्निव।
पुरोडाशं भक्षयतो दशनान्वै व्यशातयत्॥ 7-203-59(54773)
ततो निश्चक्रमुर्देवा वेपमाना भयार्दिताः॥ 7-203-60(54774)
पुनश्च सन्दधे दीप्तान्देवानां निशिताञ्शरान्।
सधूमान्सस्फुलिङ्गांश्च विद्युत्तोयदसन्निभान्॥ 7-203-61(54775)
तं दृष्ट्वा तु सुराः सर्वे प्रणिपत्य महेश्वरम्।
रुद्रस्य यज्ञभागं च विशिष्टं ते त्वकल्पयन्॥ 7-203-62(54776)
भयेन त्रिदशा राजञ्छरणं च प्रपेदिरे।
तेन चैवातिकोपेन स यज्ञः सन्धितस्तदा।
भग्नाश्चापि सुरा आसन्भीताश्चाद्यापि तं प्रति॥ 7-203-63(54777)
असुराणां पुराण्यासंस्त्रीणि वीर्यवतां दिवि।
आयसं राजतं चैव सौवर्णं परमं महत्॥ 7-203-64(54778)
सौवर्णं कमलाक्षस्य तारकाक्षस्य राजतम्।
तृतीयं तु पुरं तेषां विद्युन्मालिन आयसम्।
न शक्तस्तानि मघवान्भेत्तुं सर्वायुधैरपि॥ 7-203-65(54779)
अथ सर्वे सुरा रुद्रं जग्मुः शरणमर्दिताः।
ते तमूचुर्महात्मानं सर्वे देवाः सवासवाः॥ 7-203-66(54780)
ब्रह्मदत्तवरा ह्येते घोरास्त्रिपुरवासिनः।
पीडयन्त्यधिकं लोकं यस्मात्ते वरदर्पिताः॥ 7-203-67(54781)
त्वदृते देवदेवेश नान्यः शक्तः कथञ्चन।
हन्तुं दैत्यान्महादेव जहि तांस्त्वं सुरद्विपः॥ 7-203-68(54782)
रुद्र रौद्रा भविष्यन्ति पशवः सर्वकर्मसु।
निपातयिष्यसे चैतानसुरान्भुवनेश्वर॥ 7-203-69(54783)
स तथोक्तस्तथेत्युक्त्वा देवानां हितकाम्यया।
गन्धमादनविन्ध्यौ च कृत्वा वंशध्वजौ हरः॥ 7-203-70(54784)
पृथ्वीं ससागरवनां रथं कृत्वा तु शङ्करः।
अक्षं कृत्वा तु नागेन्द्रं शेषं नाम त्रिलोचनः॥ 7-203-71(54785)
चक्रे कृत्वा तु चन्द्रार्कौ देवदेवः पिनाकधृत्।
अणी कृत्वैलपत्रं च पुष्पदन्तं च त्र्यम्बकः॥ 7-203-72(54786)
यूपं कृत्वा तु मलयमवनाहं च तक्षकम्॥ 7-203-73(54787)
योक्त्राङ्गानि च सत्वानि कृत्वा शर्वः प्रतापवान्।
वेदान्कृत्वाऽथ चतुरश्चतुरश्वान्महेश्वरः॥ 7-203-74(54788)
उपदेवान्खलीनांश्च कृत्वा लोकत्रयेश्वरः।
गायत्रीं प्रग्रहं कृत्वा सावित्रीं च महेश्वरः॥ 7-203-75(54789)
कृत्वोंकारं प्रतोदं च ब्रह्माणं चैव सारथिम्।
गाण्डीवं मन्दरं कृत्वा गुणं कृत्वा तु वासुकिम्॥ 7-203-76(54790)
विष्णुं शरोत्तमं कृत्वा शल्यमग्निं तथैव च।
वायुं कृत्वाऽथ वाजाभ्यां पुङ्खे वैवस्वतं यमम्॥ 7-203-77(54791)
विद्युत्कृत्वाऽथ निश्राणं मेरुं कृत्वाऽथ वै ध्वजम्।
आरुह्य स रथं दिव्यं सर्वदेवमयं शिवः॥ 7-203-78(54792)
त्रिपुरस्य वधार्थाय स्थाणुः प्रहरतां वरः।
असुराणामन्तकरः श्रीमानतुलविक्रमः॥ 7-203-79(54793)
स्तूयमानः सुरैः पार्थ ऋषिभिश्च तपोधनैः।
स्थानं माहेश्वरं कृत्वा दिव्यमप्रतिमं प्रभुः।
अतिष्ठत्स्थाणुभूतः स सहस्रं परिवत्सरान्॥ 7-203-80(54794)
यदा त्रीणि समेतानि अन्तरिक्षे पुराणि च।
त्रिपर्वणा त्रिशल्येन तदा तानि बिभेद सः॥ 7-203-81(54795)
पुराणि न च तं शेकुर्दानवाः प्रतिवीक्षितुम्।
शरं कालाग्निसंयुक्तं विष्णुसोमसमायुतम्॥ 7-203-82(54796)
पुराणि दग्धवन्तं तं देवी याता प्रवीक्षितुम्।
`देव्याः स्वयंवरे वृत्तं शृणुष्वान्यद्धनञ्जय'॥ 7-203-83(54797)
बालमङ्कगतं कृत्वा स्वयं पञ्चशिखं पुनः।
उमा जिज्ञासमाना वै कोयमित्यब्रवीत्सुरान्॥ 7-203-84(54798)
असूयतश्च शक्रस्य वज्रेण प्रहरिष्यतः।
बाहुं सवज्रं तं तस्य क्रुद्धस्यास्तम्भयत्प्रभुः।
[प्रहस्य* भगवांस्तूर्णं सर्वलोकेश्वरो विभुः॥ 7-203-85(54799)
ततः स स्तम्भितभुजः शक्रो देवगणैर्वृतः।
जगाम ससुरस्तूर्णं ब्रह्माणं प्रभुमव्ययम्॥ 7-203-86(54800)
ते तं प्रणम्य शिरसा प्रोचुः प्राञ्जलयस्तदा॥ 7-203-87(54801)
किमप्यङ्कगतं ब्रह्मन्पार्वत्या भूतमद्भुतम्।
बालरूपधरं दृष्ट्वा नास्माभिरभिलक्षितः॥ 7-203-88(54802)
तस्मात्त्वां प्रष्टुमिच्छामो निर्जिता येन वै वयम्।
अयुध्यता हि बालेन लीलया सपुरंदराः॥ 7-203-89(54803)
तेषां तद्वचनं श्रुत्वा ब्रह्मा ब्रह्मविदां वरः।
ध्यात्वा स शंभुं भगवान्बालं चामिततेजसम्।
उवाच भगवान्ब्रह्मा शक्रादींश्च सुरोत्तमान्॥ 7-203-90(54804)
चराचरस्य जगतः प्रभुः स भगवान्हरः।
तस्मात्परतरं नान्यत्किञ्चिदस्ति महेश्वरात्॥ 7-203-91(54805)
यो दृष्टो ह्युमया सार्धं युष्माभिरमितद्युतिः।
स पार्वत्याः कृते शर्वः कृतवान्बालरूपताम्॥ 7-203-92(54806)
ते मया सहिता यूयं प्रापद्यध्वं तमेव हि]।
स एष भगवान्देवः सर्वलोकेश्वरः प्रभुः॥ 7-203-93(54807)
न सम्बबुधिरे चैनं देवास्तं भुवनेश्वरम्।
सप्रजापतयः सर्वे बालार्कसदृशप्रभम्॥ 7-203-94(54808)
अथाभ्येत्य ततो ब्रह्मा दृष्ट्वा स च महेश्वरम्।
अयं श्रेष्ठ इति ज्ञात्वा ववन्दे तं पितामहः॥ 7-203-95(54809)
[ब्रह्मोवाच। 7-203-96x(4813)
त्वं यज्ञो भुनस्यास्य त्वं गतिस्त्वं परायणम्।
त्वं भवस्त्वं महादेवस्त्वं धाम परमं पदम्॥ 7-203-96(54810)
त्वया सर्वमिदं व्याप्तं जगत्स्थावरजङ्गमम्॥ 7-203-97(54811)
भगवन्भूतभव्येश लोकनाथ जगत्पते।
प्रसादं कुरु शक्रस्य त्वया क्रोधार्दितस्य वै॥ 7-203-98(54812)
व्यास उवाच। 7-203-99x(4814)
पद्मयोनिवचः श्रुत्वा ततः प्रीतो महेश्वरः
प्रसादाभिमुखो भूत्वा अट्टहासमथाकरोत्॥] 7-203-99(54813)
ततः प्रसादयामासुरुमां रुद्रं च ते सुराः।
अभवच्च पुनर्बाहुर्यथाप्रकृति वज्रिणः॥ 7-203-100(54814)
तेषां प्रसन्नो भगवान्सपत्नीको वृषध्वजः।
देवानां त्रिदशश्रेष्ठो दक्षयज्ञविनाशनः॥ 7-203-101(54815)
स वै रुद्रः स च शिवः सोऽग्निः सर्वश्च सर्ववित्।
स चेन्द्रश्चैव वायुश्च सोऽश्विनौ च स विद्युतः॥ 7-203-10(54816)
स भवः स च पर्जन्यो महादेवः सनातनः।
स चन्द्रमाः स चेशानः स सूर्यो वरुणश्च सः॥ 7-203-10(54817)
स कालः सोऽन्तको मृत्युः स यमो रात्र्यहानि तु।
मासार्धमासा ऋतवः सन्ध्ये संवत्सरश्च सः॥ 7-203-10(54818)
धाता च स विधाता च विश्वात्मा विश्वकर्मकृत्।
सर्वामां देवतानां च धारयत्यवपुर्वपुः॥ 7-203-10(54819)
सर्वदेवैः स्तुतो देवः सैकधा बहुधा च सः।
शतधा सहस्रधा चैव भूयः शतसहस्रधाः॥ 7-203-10(54820)
द्वे तनू तस्य देवस्य वेदज्ञा ब्राह्मणा विदुः।
घोरा चान्या शिवा चान्या ते तनू बहुधा पुनः॥ 7-203-10(54821)
घोरा तु यातुधानस्य सोऽग्निर्विष्णुः स भास्करः।
सौम्यातु पुनरेवास्य आपो ज्योतींषि चन्द्रमाः॥ 7-203-10(54822)
वेदाः साङ्गोपनिषदः पुराणाध्यात्मनिश्चयाः।
यदत्र परमं गुह्यं स वै देवो महेश्वरः॥
ईदृशश्च महादेवो भूयांश्च भगवानजः। 7-203-10(54823)
न हि सर्वे मया शक्या वक्तुं भगवतो गुणाः॥
अपि वर्षसहस्रेण सततं पाण़्डुनन्दन।
सर्वैर्ग्रहैर्गृहीतान्वै सर्वपापसमन्वितान्॥ 7-203-10(54824)
स मोचयति सुप्रीतः शरण्यः शरणागतान्।
आयुरारोग्यमैश्वर्यं वित्तं कामांश्च पुष्कलान्॥ 7-203-112(54825)
स ददाति मनुष्येभ्यः स चैवाक्षिपते पुनः।
सेन्द्रादिषु च देवेषु तस्य चैश्वर्यमुच्यते॥ 7-203-113(54826)
स चैव वेत्ति लोकेषु मनुष्याणां शुभाशुभे।
ऐश्वर्याच्चैव कामानामीश्वरश्च स उच्यते॥ 7-203-114(54827)
महेश्वरश्च महतां भूतानामीश्वरश्च सः।
बहुभिर्बहुधा रूपैर्विश्वं व्याप्नोति वै जगत्॥ 7-203-115(54828)
तस्य देवस्य यद्वक्त्रं समुद्रे तदधिष्ठितम्।
ब़डबामुखेति विख्यातं पिबत्तोयमयं हविः॥ 7-203-116(54829)
एष चैव श्मशानेषु देवो वसति नित्यशः।
यजन्त्येनं जनास्तत्र वीरस्थान इतीश्वरम्॥ 7-203-117(54830)
अस्य दीप्तानि रूपाणि घोराणि च बहूनि च।
लोके यान्यस्य पूज्यन्ते मनुष्याः प्रवदन्ति च॥ 7-203-118(54831)
नामधेयानि लोकेषु बहून्यस्य यथार्थवत्।
निरुच्यन्ते महत्त्वाच्च विभुत्वात्कर्मणस्तथा॥ 7-203-119(54832)
वेदे चास्य समाम्नातं शतरुद्रियमुत्तमम्।
नाम्ना चानन्तरुद्रेति ह्युपस्थानं महात्मनः॥ 7-203-120(54833)
स कामानां प्रभुर्देवो ये दिव्या ये च मानुषाः।
स विभुः स प्रभुर्देवोविश्वं व्याप्नोति वै महत्॥ 7-203-121(54834)
ज्येष्ठं भूतं वदन्त्येनं ब्राह्मणा मनुयस्तथा।
प्रथमो ह्येष देवानां मुखादस्यानलोऽभवत्॥ 7-203-122(54835)
सर्वथा यत्पशून्पाति तैश्च यद्रमते पुनः।
तेषामधिपतिर्यच्च तस्मात्पशुपतिः स्मृतः॥ 7-203-123(54836)
दिव्यं च ब्रह्मचर्येण लिङ्गमस्य यथास्थितम्।
महयत्येष लोकांश्च महेश्वर इति स्मृतः॥ 7-203-124(54837)
ऋषयश्चैव देवाश्च गन्धर्वाप्यरसस्तथा।
लिङ्गमस्यार्चयन्ति स्म तच्चाप्यूर्ध्वं समास्थितम्॥ 7-203-125(54838)
पूज्यमाने ततस्तस्मिन्मोदते स महेश्वरः।
सुखी प्रीतश्च भवति प्रहृष्टश्चैव शङ्करः॥ 7-203-126(54839)
यदस्य बहुधा रूपं भूतभव्यभवस्थितम्।
स्थावरं जङ्गमं चैव बहुरूपस्ततः स्मृतः॥ 7-203-127(54840)
एकाक्षो जाज्वलन्नास्ते सर्वतोक्षिमयोऽपि वा।
क्रोधाद्यश्चाविशल्लोकांस्तस्मात्सर्व इति स्मृतः॥ 7-203-128(54841)
धूम्ररूपं च यत्तस्य धूर्जटिस्तेन चोच्यते।
विश्वे देवाश्च यत्तस्मिन्विश्वरूपस्ततः स्मृतः॥ 7-203-129(54842)
तिस्रो देवीर्यदा चैव भजते भुवनेश्वरः।
द्यामपः पृथिवीं चैव त्र्यम्बकश्च ततः स्मृतः॥ 7-203-130(54843)
समेधयति यन्नित्यं सर्वार्थान्सर्वकर्मसु।
शिवमिच्छन्मनुष्याणां तस्मादेष शिवः स्मृतः॥ 7-203-131(54844)
सहस्राक्षोऽयुताक्षो वा सर्वतोक्षिमयोऽपि वा।
यच्च विश्वं महत्पाति महादेवस्ततः स्मृतः॥ 7-203-132(54845)
महत्पूर्वं स्थितो यच्च प्राणोत्पत्तिस्थितश्च यत्।
स्थितलिङ्गश्च यन्नित्यं तस्मात्स्थाणुरिति स्मृतः॥ 7-203-133(54846)
[सूर्याचन्द्रमसोर्लोके प्रकाशन्ते रुचश्च याः।
ताः केशसंज्ञितास्त्र्यक्षे व्योमकेशस्ततः स्मृतः॥ 7-203-134(54847)
भूतं भव्यं भविष्यं च सर्वं जगदशेषतः।
भव एव ततो यस्माद्भूतभव्यभवोद्भवः॥ 7-203-135(54848)
कपिः श्रेष्ठ इति प्रोक्तो धर्मश्च वृष उच्यते।
स देवदेवो भगवान्कीर्त्यतेऽतो वृषाकपिः॥ 7-203-136(54849)
ब्रह्माणमिन्द्रं वरुणं यमं धनदमेव च।
निगृह्य हरते यस्मात्तस्माद्वर इति स्मृतः॥ 7-203-137(54850)
निमीलिताभ्यां नेत्राभ्यां बलाद्देवो महेश्वरः।
ललाटे नेत्रमसृजत्तेन त्र्यक्षः स उच्यते॥] 7-203-138(54851)
विषमस्थः शरीरेषु समश्च प्राणिनामिह।
स वायुर्विषमस्थेषु प्राणोऽपानः शरीरिषु॥ 7-203-139(54852)
पूजयेद्विग्रहं यस्तु लिङ्गं चापि महात्मनः।
लिङ्गं पूजयिता नित्यं महतीं श्रियमश्नुते॥ 7-203-140(54853)
ऊरुभ्यामर्धमाग्नेयं सोमोऽर्धं च शिवा तनुः।
आत्मनोऽर्धं तथा चाग्निः सोमोर्धं पुनरुच्यते॥ 7-203-141(54854)
तैजसी महती दीप्ता देवेभ्योऽस्य शिवा तनुः।
भास्वती मानुषेष्वस्य तनुर्घोराऽग्निरुच्यते॥ 7-203-142(54855)
ब्रह्मचर्यं चरत्येष शिवा याऽस्य तनुस्तया।
याऽस्य घोरतरा मूर्तिः सर्वानत्ति तयेश्वरः॥ 7-203-143(54856)
यन्निर्दहति यत्तीक्ष्णो यदुग्रो यत्प्रतापवान्।
मांसशोणितमज्जादो यत्ततो रुद्र उच्यते॥ 7-203-144(54857)
एष देवो महादेवो योऽसौ पार्थ तवाग्रतः।
सङ्ग्रामे शास्त्रवान्निघ्नंस्त्वया दृष्टः पिनाकधृत॥ 7-203-145(54858)
सिन्धुराजवधार्थाय प्रतिज्ञाते त्वयाऽनघ।
कृष्णेन दर्शितः स्वप्ने यस्तु शैलेन्द्रमूर्धनि॥ 7-203-146(54859)
एष वै भगवान्देवः सङ्ग्रामे याति तेऽग्रतः।
येन दत्तानि तेऽस्त्राणि यैस्त्वया दानवा हताः॥ 7-203-147(54860)
धन्यं यशस्यमायुष्यं पुण्यं वेदैश्च सम्मितम्।
देवदेवस्य ते पार्थ व्याख्यातं शतरुद्रियम्। 7-203-148(54861)
सर्वार्थसाधनं पुण्यं सर्वकिल्बिषनाशनम्।
सर्वपापप्रशमनं सर्वदुःखभयापहम्॥ 7-203-149(54862)
चतुर्विधमिदं स्तोत्रं यः शृणोति नरः सदा।
विजित्य शत्रून्सर्वान्स रुद्रलोके महीयते॥ 7-203-150(54863)
चरितं महात्मनो नित्यं साङ्ग्रामिकमिदं स्मृतम्।
पठन्वै शतरुद्रीयं शृण्वंश्च सततोत्थितः॥ 7-203-151(54864)
भक्तो विश्वेश्वरं देवं मानुषेषु च यः सदा।
वरान्कामान्स लभते प्रसन्ने त्र्यम्बके नरः॥ 7-203-152(54865)
गच्छ युध्यस्व कौन्तेय न तवास्ति पराजयः।
गस्य मन्त्री च गोप्ता च पार्श्वस्थो हि जनार्दनः॥ 7-203-153(54866)
सञ्जय उवाच। 7-203-154x(4815)
एवमुक्त्वाऽर्जुनं सङ्ख्ये पराशरसुतस्तदा।
जगाम भरतश्रेष्ठ यथागतमरिन्दम॥ 7-203-154(54867)
`वेशंपायन उवाच। 7-203-155x(4816)
एतदाख्याय वै सूतो राज्ञः सर्वं तु सञ्जयः।
प्रयातः शिबिरायैव द्रष्टुं कर्णस्य वैशसम्॥ 7-203-155(54868)
युद्धं कृत्वा महद्धोरं पञ्चाहानि महाबलः।
ब्राह्मणो निहतो राजन्ब्रह्मलोकमवाप्तवान्॥ 7-203-156(54869)
स्वधीते यत्फलं वेदे तदस्मिन्नपि पर्वणि।
क्षत्रियाणामभीरूणां युक्तमत्र महद्यशः॥ 7-203-157(54870)
य इदं पठते पर्व शृणुयाद्वाऽपि नित्यशः।
स मुच्यते महापापैः कृतैर्घोरैश्च कर्मभिः॥ 7-203-158(54871)
यज्ञावाप्तिर्ब्राह्मणस्येह नित्यं
घोरे युद्धे क्षत्रियाणां यशश्च।
शेषौ वर्णौ काममिष्टं लभेते
पुत्रान्पौत्रान्नित्यमिष्टांस्तथैव॥ ॥ 7-203-159(54872)
इति श्रीमन्महाभारते शतसाहस्यां संहितायां वैयासिक्यां द्रोणपर्वणि नारायणास्त्रमोक्षपर्वणि त्र्यधिकद्विशततमोऽध्यायः॥ 203 ॥ समाप्तं नारायणास्त्रमोक्षपर्व ॥ 8 ॥ द्रोणपर्व च समाप्तम्॥ 7 ॥
Mahabharata - Drona Parva - Chapter Footnotes
7-203-3 यदृच्छया॥ 7-203-11 जटिलं शिखिनमिति रुपभेदाभिप्रायेण विशेषणद्वयं योज्यम्॥ 7-203-12 जगत्प्रीतिं जगदानन्दकरम्॥ 7-203-13 जगद्योनिं जगद्बीजमिति जगतां मातापितृरूपम्॥ 7-203-14 विश्वनरं विश्वस्य नेतारम्। भूतस्य भव्यस्य भवस्य वर्तमानस्य चोद्भवम्॥ 7-203-15 योगेश्वरं योगिनामीशम्। योगानां फलप्रदं वा॥ 7-203-17 सुदुर्जयमत्यन्तं दुष्प्रापमनधिकारिभिः॥ 7-203-51 कर्माणि चैव घोराणि महादेवस्य धन्विनः इति क.ख.पाठः॥ 7-203-52 गुहागताः पातालगता अपीत्यर्थः॥ 7-203-57 तमसा संवृता न प्राकाशन्त न प्राज्ञायन्त॥ 7-203-58 चक्रुर्ऋषय इति सम्बन्धः॥ 7-203-59 पूषाणं पूषणम्॥ 7-203-60 नताः स्म ते इति पाठे नता लीनाः सन्तो निश्चक्रमुर्यज्ञदेशादपक्रान्ताः॥ 7-203-61 देवानां लीनानामपि वधायेति शेषः॥ 7-203-63 अतिकोपेन अतिक्रान्तकोपेन शान्तेनेत्यर्थः। ततः प्रभृति पूर्वं भग्नाः सन्तोऽद्यापि भीताः सन्तीत्यर्थः॥ 7-203-70 वंशध्वजौ अल्पौ ध्वजौ पार्श्वद्वयस्थौ। महाध्वजस्तु मेरुरिति वक्ष्यते॥ 7-203-72 अणी युगान्तबन्धने द्वौ नागौ॥ 7-203-73 यूपं युगम्। अवनाहं त्रिवेणुयुगबन्धनरज्जुम्॥ 7-203-74 योक्त्राणि। अङ्गानि चाकर्षादीनि। सत्वानि सरीसृपपर्वतादीनि च॥ 7-203-75 उपवेदान् आयुर्वेदधनुर्वेदगान्धर्ववेदपश्चिमाम्नायान्। खलीनान् खडियाळीति प्रसिद्धान्। गायत्रीसावित्र्यौ प्रग्रहं रश्मीन्॥ 7-203-77 वाजाभ्यां पक्षाभ्यां पक्षयोरित्यर्थः॥ 7-203-78 विद्युत् विद्युतम्। निश्राणं निशितम्॥ 7-203-80 स्थानं स्थीयतेस्मिन्निति योगाद्व्यूहम्। स्थाणुरचलः॥ 7-203-81 समेतानि समसूत्रगतानि। त्रिपर्वणा त्रीणि विष्णुवायुवैवस्वताख्यानि शरपक्षपुङ्खरूपाणि पर्वाणि यस्य तेन। त्रिशल्येन गार्हपत्यदक्षिणाग्न्याहवनीयरूपाऽग्नित्रयशल्येन॥ 7-203-96 गतिः पालकः। परायणं लयस्थानम्। भव उत्पत्तिकारणम्॥ 7-203-98 ईशः शिक्षकः। नाथः नायकः। पतिः पालकः॥ 7-203-120 शतरुद्रियं नमस्ते रुद्र मन्यव इति याजुषः प्रपाठकः। उपस्थानं रुद्रोपस्थानमन्त्रभूतम्॥ 7-203-121 कामानां दिव्यानां मानुषाणां च स प्रभुर्दाता। विभुर्व्यापकः॥ 7-203-203 त्र्यधिकद्विशततमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|